तथापि मृगाणां मृगीणां चामरणान्तानि प्रेमाणि॥)
मृगस्नेहाद् गजस्नेह इति प्रकृष्टमन्यदपि विलोकितम्। यथोच्यते—
रेवापयः किसलयानि च सल्लकीनां विन्ध्योपकण्ठविपिनं विपुलं विहाय।
किं शोचसे गज! गतोऽसि वशं करिण्याः स्नेहो हि कारणमनर्थपरम्परायाः॥ ३०॥
गजस्नेहाच्चक्रस्नेहो विशिष्यत इत्यपि विलोकितम्। स हि प्रियतमया वियुज्यमानः किलैवमाह, यथा—(सूमु. २५०)
आपृष्टाऽसि व्यथयसि मनो दुर्बला वासरश्री— रेह्यालिङ्ग क्षपय रजनीमेकिका चक्रवाकि!। नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा दैवाधीनस्तदिह भवतीमस्वतन्त्रस्त्यजामि॥ ३१॥
तदुभयमपि द्वितीयश्लोकेनाचष्टे, चक्रवाकस्नेहादपि किन्नरमिथुनस्नेहः प्रकृष्यते, तद्धि मिथो वियुक्तं क्षणमपि न जीवति, तत् तृतीयश्लोकेनाभिधत्ते। ततोऽपि वृक्षवल्लीप्रेम प्रकृष्टम्, ते तथा मिथो व्यतिषज्येते यथा यावज्जीवं तथैवार्धनारीश्वरवदवतिष्ठेते, तच्चतुर्थश्लोकेनाह। सोऽयं चतुरवस्थोऽपि सम्भोगश्रृङ्गारः सामान्यरूप उक्तः।
(२. विशेषरूपो नागरकनायकादीनाम्)
अथैव विशिष्टनायकविषयो विशेषरूप उच्यते। स च सात्त्विकादिनायकभेदात् स्थिरास्थिरत्वादितारतम्यात् प्रबन्धेनोपपद्यमानो द्वादशप्रकार उत्पद्यते।
१. प्रथमसन्दर्शनक्षण एव संक्षेपेणोत्पन्न संक्षिप्त इत्युच्यते।