२. अथैष द्वितीयावस्थायां विभावानुभावव्यभिचारिसंयोगैरभिव्यज्यमानः स्वभाव— कुटिलत्वाद् व्यञ्जनसम्बन्ध ॰ ॰ ॰ स्सोऽपि द्वादशप्रकार एव विप्रथते। सङ्कीर्यमाणत्वाच्च सङ्कीर्ण इत्युच्यते।
३. अथायमेव ईप्सितमासादयञ् जिहासितं जिहानः परप्रकर्षोन्मुखस्तृतीयावस्थायां धर्मार्थकामाननुबध्नाति। तद्वशाच्च द्वादशप्रकारो जायते। सम्पूर्णरूपत्वात् सम्पूर्ण इत्युच्यते।
४. अथ चतुर्थावस्थायामयमेव प्राप्तप्राप्यप्रकर्षितभूतकरणसामग्र्यतो द्वादशप्रकारः। यथा पाकाच्च सम्यमास्वाद्यत्वमुपगतः सम्यगित्युच्यते। तत्र —
संक्षेपपक्षे रागोपाधिः प्रेमापि द्वादशप्रकारं भवति। तत्र
१—४ हरिद्रारागं, रोचनरागं, काम्पिल्यरागं, रीतिरागमिति सात्त्विकस्य, ५—८ कुसुम्भरागं, लाक्षारागम्, अक्षीबरागं, मञ्जिष्ठारागमिति राजसस्य, ९—१२ कर्दमरागं, कषायरागं, सकलरागं, नीलीरागमिति तामसस्य।
तत्प्रायेण पुरुषाणां विशेष उपजायते। तत्र—
१. अल्पकारणापनेयः हरिद्रारागः, तदतिसत्त्वोद्रेकस्य, स हि तथा न कामेन बाध्यते। यथा सत्त्वोद्रेकात् करुणादिभिस्तेनासौ नातितरामतिचिरं वा रज्यते। अतो हरिद्राराग इति, नागानन्दे जीमूतवाहनः — (४.२२)
न तथा सुखयति मन्ये मलयवती मलयचन्दनरसार्द्रा।