भ्रमराः कुन्दलतायां चिररूढप्रणयभङ्गभीरुतया।
दयिततमामपि विपिने चूतलतां निभृतमभिलषन्ति॥ २७॥
मुग्धामजातरजसं कलिकामकाले बालां कदर्थयसि किं नवमालिकायाः।
अन्यासु तावदुपभोगसहासु भृङ्ग! लोलं विनोदय मनः सुमनोलतासु॥ २८॥
तस्य च परवति तत्सङ्गमसुभगंमानिनः स्वयोषिति रतिस्तथा न स्वदते यथा मिथोविप्रयुक्तमृगयूनोरिति तदुत्तरार्धेन प्रतिपादयति, प्रकृष्टश्च मृगस्नेह इति सार्वलौकिकी गाथा— (गास. ३.८७)
रण्णम्मि तणं रण्णम्मि पाणिअं सव्वदो सअंगाहं।
तह वि मिआण मईणं अ आमरणंताइं पेम्माइं॥ २९॥
(अरण्यं तृणमरण्ये पानीयं सर्वतः स्वयंग्राह्यम्।