त्वक्साररन्ध्रपरिपूरणरक्तगीति— रस्मिन् मुहुर्मृदितपक्ष्मलरल्लकाङ्गः।
कस्तूरिकामृगविमर्दसुगन्धिरेति रागीव सक्तिमधिकां विषयेषु वायुः॥ २२॥
सम्मूर्च्छतां रजतभित्तिमयूखजालै— रालोलपादपलतान्तरनिर्गतानाम्।
घर्मद्युतेरिह मुहुः पटलानि धाम्ना— मादर्शमण्डलनिभानि समुल्लसन्ति॥ २३॥
श्रीमल्लता भवनमोषधयः प्रदीपाः शय्या नवानि हरिचन्दनपल्लवानि।
अस्मिन् रतिश्रमजितश्च सरोजवाताः स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः॥ २४॥