वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषिक्तभासः।
भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः॥ १८॥
यत्रांशुकाक्षेपविलज्जितानां यत्रेच्छया किम्पुरुषाङ्गनानाम्।
दरीगृहद्वारि विलम्बिबिम्बास्तिरस्करिण्यो जलदा भवन्ति॥ १९॥
तस्मिन् समारोपितपुष्पचापे रतिद्वितीये मदने प्रविष्टे।
काष्ठागतस्नेहरसानुविद्धं द्वन्द्वानि भावं क्रियया विवव्रुः॥ २०॥
देशविशेषस्योद्दीपनविभावतां प्रतिपादयति। उद्दीपिताश्च ते सविभ्रमभ्रूकटाक्ष— विक्षेपालापसम्भृतस्मितानि विभावानुभावैरभिव्यज्यन्ते। तेऽपि किन्नरीमुखे यथोक्तगुणयुक्ते युक्तितो भवन्त्येवेति। रत्युपचारश्चेह सर्वोऽपि सर्वोपकरणप्रगुणयैव विशिष्टदेशकालोपकल्पितः प्रतीयते। तथाहि—
रम्या नवद्युतिरपैति न शाद्वलेभ्यः श्यामीभवन्त्यनुदिनं नलिनीवनानि।
अस्मिन् विचित्रकुसुमस्तबकाचितानां शाखाभृतां परिणमन्ति न पल्लवानि॥ २१॥