जाताश्च तेऽधरस्फुरणादिभिर्ज्ञायन्ते, तथा हि—(मामा. २.५)
नीवीबन्धोच्छ्वसनमधरस्पन्दनं दोर्विषादः स्वेदश्चक्षुर्मसृणमधुराकेकरस्स्निग्धमुग्धम् ।
गात्रस्तम्भः स्तनमुकुलयोरुत्प्रबन्धः प्रकम्पो गण्डाभोगे पुलकपटलं मूर्च्छना चेतना च॥ १०॥
रतिप्रकर्षादीन्यालिङ्गनानि। तदिह 'स्फुरत्प्रवालोष्ठमनोहराभ्य' (कुसं. ३. गतेन) इत्यनेन दर्शयति। अभिज्ञाता ऋतूद्यानोपगमनजलक्रीडाक्रीडापर्वतप्रवेशमधुपानेन्दू— दयादिभिरुद्दीप्यते।
तत्रेह ऋतुः प्रकरणाद् गम्यते तद्यथा— (कुसं. ३.२४,२६,२९,३२,३३)
तस्मिन् वने संयमिनां मुनीनां तपस्समाधिप्रतिकूलवर्ती।
सङ्कल्पयोनेरभिमानभूतमात्मानमाधाय मधुर्जजृम्भे॥ ११॥
असूत सद्यः कुसुमान्यशोकः स्कन्धात् प्रभृत्येव सपल्लवानि।
पादेन नापैक्षत सुन्दरीणां सम्पर्कमाशिञ्जितनूपुरेण॥ १२॥
बालेन्दुवक्राण्यविकासभावाद् बभुः पलाशान्यतिलोहितानि।