ददौ सरःपङ्कजरेणुगन्धि गजाय गण्डूषजलं करेणुः।
अर्धोपभुक्तेन बिसेन जायां सम्भावयामास रथाङ्गनामा॥ २॥
गीतान्तरेषु श्रमवारिलेशैरीषत्समुच्छ्वासितपत्रशोभम्।
पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं किम्पुरुषश्चुचुम्ब॥ ३॥
सम्प्राप्तपुष्पस्तबकस्तनीभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यः।
लतावधूभ्यस्तरवोऽप्यवापुर् विनम्रशाखाभुजबन्धनानि॥ ४॥
अत्र च सरीसृपमृगपशुपक्षिपुरुषाभासतस्थिवद्विशेषाणां निसर्गसिद्धयैव रतोत्सवो दीयते, यथोच्यते—
वृथोपदेशस्सिद्धो हि कामोऽनाख्यातशिक्षितः।
स्वकान्तारमणोपाये को गुरुर्मृगपक्षिणाम्॥ ५॥
कमलिनीनलिनी दयितं विना न सहते सह तेन निषेविताम्।