भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 31 to 40 of 262 verses
तमधुना मधुना निहितं हृदि स्मरति सा रतिसारमहर्निशम्॥ ६॥

(रुद्रटस्य काव्यालङ्कारे ३.५७)

दन्तच्छदारुणिमरञ्जितकान्तदन्त— मुन्नम्य चुम्बति हसद्‌वदनः प्रियायाः।

काम्पिल्यकप्रसवपाटलगण्डपालि— पाकारुणस्फुरितदाडिमकान्ति वक्त्रम्॥ ७॥

(मामा. ९.३१)

पादाहतः प्रमदया विकसत्यशोकः शोकं जहाति बकुलो मुखसीधुसिक्तः।

गर्वायते कुरबकोऽभिहतः कुचाभ्या— मालोकितस्तिलक उत्कलिको विभाति॥ ८॥

सा च रतेः सत्ता अभिलषणीयालिङ्गनादिसत्यां समुपजायमानैर्हर्षधृतिस्मृति व्यभिचारिभावैः संसृज्यते। तदिह 'सम्प्राप्‍तपुष्पस्तबकस्तनीभ्य' (कुसं. ३ गतेन) इत्यादिना प्रतिपादयन्ति, तत्र हि वयस्सन्धौ हर्षादयो जायन्ते। यदाह—(मामा. ९.२९वत्)

तदा किञ्चित्किञ्चित् कृतपदमहोभिः कतिपयै— रथाग्रे विस्तारिस्तनमुकुलमासीन्मृगदृशः।

वयस्स्‍नेहाकूतव्यतिकरघनो यत्र मदनः प्रगल्भव्यापारश्चलति हृदि मुग्धश्च वपुषि॥ ९॥