भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 51 to 60 of 262 verses
सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम्॥ १३॥

चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यन्मधुरं चुकूज।

मनस्विनीमानविघातदक्षं तदेव जातं वचनं स्मरस्य॥ १४॥

हिमव्यपायाद् विशदाधराणामापाण्डरीभूतमुखच्छवीनाम्।

स्वेदोद्‍गमः किम्पुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु॥ १५॥

उद्यानोपगमनं मधुपानादयः प्रतिपादयन्ति, जलक्रीडां करि ॰ ॰ क्रौञ्चचक्रवाकमिथुनं चाभिधत्ते। क्रोडापर्वतप्रवेशं प्रसाधनग्रहणं, मधुपानं किन्नरद्विरेफवृत्तान्तः सूत्रयति, इन्दूदयो दिवासम्भोगे न विद्यते, आदिग्रहाणात्तु— (कुसं. १.९, १५, १०, १४; ३.३५)

कपोलकण्डूः करिभिर्विनेतुं विद्यट्टितानां सरलद्रुमाणाम्।

यत्र स्रुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति॥ १६॥

भागीरथीनिर्झरशीकराणां वोढा मुहुः कम्पितदेवदारुः।

यद्‌वायुरन्विष्‍टमृगैः किरातैरासेव्यते भिन्नशिखण्डिबर्हः॥ १७॥

Showing 51 to 60 of 262 verses