(२) गच्छतो मानस्य चिह्नानि मानापगमनलिङ्गानि, यथा—(गास. २.८८)
णेउरकोडिविलग्गं चिहुरं दइअस्स पआपडिअस्स।
हिअअं पउत्थमाणं उम्मोअंति च्चिअ कहेइ॥ ४॥
(नूपुरकोटिविलग्नं चिकुरं दयितस्य पादपतितस्य।
हृदयं मानप्रवृत्तमुन्मोचयन्त्येव कथयति॥)
आलोक्य प्रियतमंशुके विनीवौ यत्तस्थे नमितमुखेन्दु मानवत्या।
तन्नूनं पदमवलोकयाम्बभूव मानस्य द्रूतमपयानमास्थितस्य॥ ५॥
(३) मानगोपनं मानापह्नवो यथा—
दत्ता वाचः प्रकृतिमधुराः पूर्ववत् प्रीतिरम्या न्यस्ता दृष्टिर्वदनशशिनो दर्शितश्च प्रसादः।