सव्यलीकमवधीरिखिन्नं प्रस्थितं सपदि कोपपदेन।
योषितः सुहृदिव स्म रुणद्धि प्राणनाथमभिबाष्पनिपातः॥ १०॥
न स्पृष्टोऽपि त्रिदशसरितो दूरमीर्ष्यानुबन्धां नाप्युत्सृष्टो भुजगपतिना तर्जनाभिर्जयायाः।
मानस्यान्ते नयनसलिलैः क्षालितः शैलपुञ्या पत्युर्मौलौ नतिजुषि जयत्यात्मनः पादपांसुः॥ ११॥
(६) प्रियेण मानवैमलस्थादिपृच्छा प्रियाभ्युपपत्तिः, यथा—
कीस मलिआवअंसं वअण्ण—णीसास—पंडुराहरराअं।
वअणं वहसि किसोअरि! कर—संकामिअ—कओल—पत्तालेक्खं॥ १२॥
(कस्माद् मलिनावतंसं प्रपन्ननिःश्वासप्रगुणिताधररागम्।
वदनं वहसि कृशोदरि करसङ्गक्रामितकपोलपत्रालेख्यम्॥)