द्रक्ष्यसि त्वमिति सान्ध्यवेलया वर्तिकाभिरिव साधु वर्तिताः॥ १४॥
दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः।
वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कानि न चकार लज्जया॥ १५॥
तौ सन्धिषु व्यञ्जितवृत्तिभेदं रसान्तरेषु प्रतिभिन्नरागम्।
अपश्यतामप्सरसां मुहूर्तं प्रयोगमाद्यं वनिताङ्गहारम्॥ १६॥
(५) नवोढायाः कामप्रौढिपिशुनमार्तवदर्शनं परिहारः, यथा—
सोहइ विसुद्धसिद्धत्थको अदंतुरविसुद्धसीमंतो।