भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 121 to 130 of 262 verses
अभिवाञ्छितार्थसिद्‍ध्यै वध्यशिलेयं यथाऽऽश्लिष्टा॥ ३२॥

२. अनल्पकारणापनेयो रोचनारागः, तन्महासत्त्वस्य, स हि कामेनाबाध्यमानः धर्मादिप्रवृत्तिरेव स्वकारणसामग्र्यतो जायते। तेनास्य नातिदुरपनेया नातिरक्ता वा रोचनाया इव रागलेखा भवति। यथा शाकुन्तले दुर्वाससः शापेनापनीत स्मृतेर्दुष्यन्तस्य— (७.२४)

सुतनु! हृदयात् प्रत्यादेशव्यलीकमपैतु ते किमपि मनसः सम्मोहो मे तदा बलवानभूत्।

प्रबलतमसामेवंप्रायाः शुभेषु हि वृत्तयः स्‍त्रजमपि शिरस्यन्धः क्षिप्‍तां धुनोत्यहिशङ्कया॥ ३३॥

३. अनल्पकारणोपनिपातेऽपि प्रयत्‍नापनेयं काम्पिल्यरागं तदतिसात्त्विकस्य, यथा हरिश्चन्द्रचरिते विश्वामित्रमोचनाय दारविक्रयिणो हरिश्चन्द्रस्य—

हे धन्याः श्रृणुतावधत्त धनिनः! सेयं मया प्रेयसी मत्पाणिग्रहदूषणादिति दशां याता जगत्पावनी।

दुर्वृत्तेन दुरन्तपातकशतध्वस्ते हितः पौरुषे स्वामित्वैकसभाजितापि सुदती विक्रीयते क्रीयताम्॥ ३४॥

४. कारणोपनिपाते यन्महतापि स्वयत्‍नेनापनेतुं शक्यते, तद् रीतिरागम्। तदतिमहासत्त्वस्य, यथा जनापवादभीरुतया निर्वासितायामपि सीतायां रामायणे रामस्य—

ततः कैरप्युक्ते परिणयविधौ काष्ठमुनिभिः पुराणैरातङ्कग्लपितहृदयेन क्षितिभृता।

विना वाचं नैतत् क्षममिति निधायाननमधः- पतद्‍बाष्पाम्भोभिर्लिखितमिव दत्तं प्रतिवचः॥ ३५॥

Showing 121 to 130 of 262 verses