कौतूहलात् सह मयैव गतेन्दुलोकमालोकयिष्यति कदाचन पत्रलेखाम्।
काचित् प्रिये सहचरी मम सातिभव्या मातेत्यभूत्तदनवाप्तिकृतो विषादः॥ १६६॥
(९) अनुभूतार्थनिवेदनं वृत्तान्तकथनम्, यथा—(कादकसा. ८.८३, ८४)
मामन्वबीभवदिमामियतीमवस्थां शापः कलङ्क इव कान्तिहरो द्वितीयः।
तद्विप्रयोगकृत एव बभूव तापस्तन्वङ्गि! शूद्रकतनोरपि मृत्यवे मे॥ १६७॥
संरक्षिता तनुरियं नु तव प्रियेति शापः कृशोदरि! विराममवाप पापः।
अद्यप्रभृत्यखिलमेव हि चन्द्रलोकं शाधि स्वपादकृतमुद्रमिदं महच्च॥ १६८॥
(१०) विश्वासोपजनः विस्रम्भोत्पत्तिः, यथा—(कादकसा. ८.८७)
श्रुत्वेति तस्य गिरमुत्सुकतां गतासौ रोमाञ्चकञ्चुकमकृत्रिममुद्वहन्ती।
कादम्बरी चरणयोर्निपपात पत्युरानन्दबाष्पकणशीकरितेक्षणश्रीः॥ १६९॥