यत् पश्यामि विशालाक्षीं साक्षादेतां मदालसाम्॥ १५८॥
(५) कान्ताव्याहारः प्रियाभिभाषणम्, यथा—(कादकसा. ८.८१,८२)
शिलाशय्यां त्यक्त्वा तदनु चिरसुप्तोत्थित इव क्षणं स्थित्वा जृम्भालसवदनमुन्मील्य नयने।
ततश्चन्द्रापीडः प्रहतमुरजध्वानपटुना स्वरेण स्वेनैव स्मितमधुरमाह प्रियतमाम्॥ १५९॥
तदमृतप्रभवेऽप्सरसां कुले सुतनु! जन्म समुत्थितवत्यसि।
यदमुना परिरम्भलवेन ते सपदि जीवितमापदयं जनः॥ १६०॥
(६) प्रियोपरमेऽपि प्राणाविगमक्रीडा जीवितेति लज्जा, यथा—(रघु. १२.७५)
कामं जीवति मे नाथ इति सा विजहौ शुचम्।
प्राङ्मत्वा सत्यमस्यान्तं जीवितास्मीति लज्जिता॥ १६१॥
दग्धैष दयिते पूर्वं न मृषास्मीति लज्जया।