प्रेष्यन्ते सरभसं समकं दूतीभिर्दुष्टयः॥)
अहिअं समागमाहिं वि पिअअमसंदेसिआहिं दूईहिं।
सोक्खं धूणंदअरा सीसंता देत्ति संदेसा॥ १७३॥
(अधिकं समागमैरपि प्रियतमसन्दिष्टाभिः आलीभिः।
सौख्यं धूयमानकराः शिष्यमाणाः ददति सन्देशाः॥)
(५६) निमित्तविशेषात् प्रियाणां गमने स्वयं ता तत्र गच्छेदिति स्वयं वा गमनं यथा—
विच्छिंदिज्जइ धीरं दारगआ पडिवहं ण णिज्जइ दिट्ठी।
गम्मइ हिअअम्मि गए पिआणं गअदूइमग्गउ च्चिअ वसहिं॥ १७४॥
(विच्छिद्यते धैर्यं द्वारगता प्रतिपथं न नीयते दृष्टिः।
गम्यते हृदये गते प्रियाणां गतदूतीमार्गत एव वसतिम॥)