कंडूइअपुंडुरं जह ण होइ तह तं कुणिज्जासु॥ १७०॥
(दूति त्वमेव निपुणा कर्कशमृदुकानि जानीषे वक्तुम्।
कण्डूयितपाण्डुरं यथा न भवति तथा तत् करिष्यसि॥)
णिवससि दुक्खसहाआ मह हिअए सो पिओ तहिं चेअ।
सहि सुणह दो वि तुम्हे परमत्थं व संदिसिमो॥ १७१॥
(निवससि दुःखसहाया मम हृदये स प्रियस्तत्रैव।
सखि! श्रृणुत द्वावपि युवां परमार्थमेव सन्दिशामः॥)
सुरअ—सुह—लालसाहिं पिअअम—रत्थंतरेसु पुणरुत्तं।
पेसिज्जंति सरहसं समअं दूर्हहि दिट्ठीओ॥ १७२॥
(सुरतसुखलालसाभिः प्रियतमपथान्तरेषु पुनरुक्तम्।