उअवआरअ जर जीअं पि णेंत ण कआवराहो सि॥ १७७॥
(सुखपृच्छकं जनं दुर्लभमपि विदूरादस्माकमानयन्।
उपकारक ज्वरक जीवमपि नयन्न कृतापराधोऽसि॥)
(५७) प्राप्तस्याभ्युत्थानादिप्रतिपत्तिरागतोपचारः, यथा—
जणिअहरिसाण तक्खणहिअआपडिअं पि पिअअमब्भुट्ठाणं।
अंगेहि कामिणीणं संभावेउं मआलसेहिं ण चअइ॥ १७८॥
(जनितहर्षाणां तत्क्षणहृदयापतितमपि प्रियतमाभ्युत्थानम्।
अङ्गेः कामिनीनां सम्भावयितुं मदालसैः न शक्यते॥)
कामिणीजणस्स सहसा पिअदंसणवित्थरंतहरिसविमुहिआ।