(५८)आगतानामनुरागवृद्धये प्रसाधनसंवाहनादिविधिः परिचरणम्, यथा—(कुसं. ८.२७)
तां पुलोमतनयालकोचितैः पारिजातकुसुमैः प्रसाधयन्।
नन्दने चिरमयुग्मलोचनस्सस्पृहं सुरवधूभिरीडितः॥ १८२॥
आविवाहसमयाद् गृहे वने शैशवे तदनु यौवने पुनः।
स्वापहेतुरनुपाश्रितोऽन्यया रामबाहुरुपधानमेष ते॥ १८३॥ (उराच. १.३७)
लोलांशुकस्य पवनाकुलितांशुकान्तं त्वद्दृष्टिबहारि मम लोचनबान्धवस्य।
अध्यासितुं तव चिरं जघनस्थलस्य पर्याप्तमेव करभोरु! ममोरुयुग्मम्॥ १८४॥(वेसं. २.२३)
किं शीतलैः क्लमविनोदिभिरार्द्रवातान् सञ्चारयामि नलिनीदलतालवृन्तैः।
अङ्के निधाय करभोरु! यथासुखं ते संवाहयामि चरणावुत पद्मताम्रौ॥ १८५॥