अयमपरदिशोऽङे्क मुञ्चति स्रस्तहस्तः शिशयिषुरिव पाण्डुग्लानमात्मानमिन्दुः॥ १६३॥
शब्दस्य सामर्थ्योपजातता गुणसङ्क्रान्तयः सङ्क्लृप्ताः। तेषु—
इअरो जणो ण पावइ तुह जहणारुहणसंगमसुहेल्लिम्।
अणुहवउ कणअडोरो हुअवहवरुणाण माहप्पं॥ १६४॥
(इतरो जनो न प्राप्नोतु तव जघनारोहणसंगमसुखकेलिम्।
अनुभवतु कनकदोरः हुतवहवरुणयोर्माहात्म्यम्॥)
मम रूपकीर्तिमहरद् भुवि यस्तदनुप्रसक्तहृदयेयमिति।