मा रुअसु पुससु बाहं अवआसे कुणसु सपरिअत्तमुहं।
संभरिअ विरहदुक्खं रोत्तव्वं ते पुणो पिअस वि अंके॥ १८२॥
(मा रोदीः प्रोञ्छ बाष्पं पश्य कुरु संपरिवृत्तमुखम्।
संस्मृत्य विरहदुःखं रोदितव्यं ते पुनः प्रियस्याप्यङ्के॥)
२. उद्धर्षणं यथा—(सेब. ११.९२)
अइरा दंसिहिसि तुमं चिरविरहोलुग्गपंडुरमुहच्छाअं।
गअरोससुहालोअं ओवारिअ—चावणिव्वुअं दासरहं॥ १८३॥
(अचिराद् द्रक्ष्यसि त्वं चिरविरहावरुग्णपाण्डुरमुखच्छायम्।
गतरोषसुखालोकमवतारितचापनिर्वृतं दाशरथिम्॥)