४. उत्साहनं यथा—(रघु. ८.८४)
उदये मदवाच्यमुज्झता श्रुतमाविष्कृतमात्मनस्त्वया।
मनसस्तदुपस्थिते ज्वरे पुनरक्लीबतया प्रकाश्यताम्॥ १८७॥
न पृथग्जनवच्छुचो वशं वशिनामुत्तम! गन्तुमर्हसि।
द्रुमसानुमतां किमन्तरं यदि वायोर्द्वितयेऽपि ते चलाः॥ १८८॥
५. अनुकम्पनं यथा—(रघु. १४.७१)
तमश्रुनेत्रावरणं प्रमृज्य सीता विलापाद् विरता ववन्दे।
तस्यै मुनिर्दौहृदलिङ्गदर्शी दाश्वानपत्याशिष इत्युवाच॥ १८९॥