अक्षिभ्यां यो न दृश्यते घनस्तनभररुद्धप्रसराभ्याम्॥)
नायिकाया यथा—(किराता. ३.४०)
यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसङ्ख्यामतिवर्तितुं वा।
अनुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति लक्ष्मीः॥ १६८॥
दिने दिने गाढमुपोढरागा यथा यथा श्रीरुपगाहते त्वाम्।
महीपते! नूनमुपाहितेर्ष्या तथा तथा दूरमुपैति कीर्तिः॥ १६९॥
(दिनान्तकालावधि भुक्तभुक्ता निशामुखे पाश्य)१व बद्धभावा।
चलस्वभावा दयितेव युनः सन्तापमिन्द्रस्य करोति लक्ष्मीः॥ १७०॥