अनुनायिका यथा—(रघु. १५.१)
कृतसीतापरित्यागः स रत्नाकरमेखलाम्।
बुभुजे पृथिवीपालः पृथिवीमेव केवलाम्॥ १७१॥
॰ ॰ ॰ विशेषो विवक्षावशाद् भावहेतुकर्त्रादिरूपप्रत्ययार्थतां प्रतिपद्यते। तत्र—
नायिकाया भावरूपता यथा—(शाकु. ३.१७)
परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे।
समुद्ररशना चोर्वी सखी च युवयोरियम्॥ १७२॥
शिञ्जानमञ्जुमञ्जीरकाञ्चीसञ्चारचारवः ।
रमयन्ति मनः कान्ता नितान्तं योगिनामपि॥ १७३॥