अथ यन्तारमादिश्य धुर्यान् विश्रामयेति सः।
तामवारोहयत् पत्नीं रथादवततार च॥ १७४॥
(रघु. १.५४) १. कोष्ठकगतोंऽशोऽस्मत्परिकल्पिता खण्डितांशपूर्त्तिः। पाशिनि वरुणे।
कर्तृत्वं यथा—(विक्र. ३.११)
अयं तस्या रथक्षोभादंसादंसो निपीडितः।
एकः कृती शरीरेऽस्मिञ् शेषमङ्गं भुवो भरः॥ १७५॥
कलत्रवन्तमात्मानमवरोधे महत्यपि।
तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः॥ १७६॥
सम्प्रदातृत्वं यथा—(रघु. १.४७)