पुण्णाहमंगलं विअ गिज्जउ मुच्चंतबंधाए॥ १९२॥
(विश्राम्यतो विलासिनीहृदये कुसुमायुधस्य रशनया।
पुण्याहमङ्गलमिव गीयते मुच्यमानबन्धया॥)
उत्तारिअ—णेउर—हार—तिलअ—ताडंक—वलअ—रसणंमि।
अविहअपसरो मअणो धावइ अंगम्मि तरुणीणं॥ १९३॥
(उत्तारित—नूपुर—हार—तिलक—ताटङ्क—वलय—रशने।
अविहतप्रसरो मदनो धावत्यङ्गे तरुणीनाम्॥)
(६१) (सुरतो) पक्रमो रतारम्भः यथा—(कुसं. ८.७९, ८०.४)
तत्क्षणं विपरिवर्तिताह्रियोर्निष्य/ च्छतोः शयनमिद्धरागयोः।
सा बभूव वशवर्तिनी द्वयोः शूलिनः सुवदना मदस्य च१॥ १९४॥