(५९) रिरंसातिशयान् सख्यादीनामनवेक्षणादिभिरुत्थापनं विसर्जनम्, यथा—(किराता. ९.६६)
भर्तृषूपसखि निक्षिपतीनामात्मनः स्फुटमदोद्यमितानाम्।
व्रीडया विफलया वनितानां न स्थितं न विगतं हृदयेभ्यः॥ १८६॥
मिथ्यामीलदरालपक्ष्मणि वलत्यन्तः कुरङ्गीदृशो दीर्घापाङ्गसरित्तरङ्गसरले तल्पोन्मुखे चक्षुषि।
पत्युः केलिमतः कथा विरमयन्नन्योन्यकण्डूयनैः को मां व्याहरतीत्युदीर्य निरगात् सव्याजमालीजनः॥ १८७॥
मधुमदपरिपाटलप्रकोपद्विगुणतरारुणितेक्षणं मृगाक्ष्या।
रतिरसमनया घनापराधं प्रियामिव सेर्ष्यदृशा व्यलोकि दीपः॥ १८८॥
अथ रतिरभसादलीकनिद्रामधुरविघूर्णितलोचनोत्पलाभिः।
शयनतलमशिश्रयन् वधूभिः सहमदमन्मथमन्थरा युवानः॥ १८९॥
(६०) कूर्पासकविभूषणादित्यागः कञ्चुकादिमोक्षः, यथा—