अइरा ए रहुतणओ तण्णाअंतग्गहत्थमउविअपमहं।
मोप्पिअ वेवंतंगुलिगुप्फंतक्खित्तविसमभाअं वेणी॥ १८४॥
(अचिरात् ते रघुतनयः आर्द्रीयमाणाऽग्रहस्त—मृदूकृत—पक्ष्म।
मोक्ष्यति वेपमानाङ्गुलिगुप्यमानोत्क्षिप्तविषमभागां वेणीम्॥)
३. प्रतिबोधनं यथा—(रघु. ८.८३)
तदलं तदपायचिन्तया विपदुत्पत्तिमतामुपस्थिता।
वसुधेयमवेक्ष्यतां त्वया वसुमत्या हि नृपाः कलत्रिणः॥ १८५॥
रुदता कुत एव सा पुनर्भवता नानुमृतापि लभ्यते।
परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम्॥ १८६॥