रामसिरबद्धलक्खा धुव्वइ वाहेण से ण रुद्धइ दिठ्ठी॥ १८०॥
(लक्ष्यमाणविषादा अभ्यधिकोन्मीलितनिश्चलस्थितनयना।
रामशिरोबद्धलक्ष्या धाव्यते बाष्पेण तस्या न रुध्यते द्ृष्टिः॥)
(४. विमर्शसन्धौ करुणस्य विभावादयः —१६)
१. विमर्शसन्धौ समाश्वासनं यथा—(सेब. ११.८६)
तो विलविअणिच्छामं गलंतहिअअपरिसुण्णलोअणजुअलं।
महुरं आसासंती हत्थुत्ताणिअमुही हणइ तं तिअडा॥ १८१॥
(ततः विलपितनिश्श्यामं गलद्धृदयपरिशून्यलोचनयुगलम्।
मधुरमाश्वासयन्ती हस्तोत्तानितमुखी भणति तां त्रिजटा॥)