१४. सहायशिक्षा यथा—(कुसं. ४.३६)
तदनु ज्वलनं मदर्पितं त्वरयेर् दक्षिणवातवीजनैः।
विदितं खलु ते यथा स्मरः क्षणमप्युत्सहते न मां विना॥ १७५॥
परलोकविधौ च माधव स्मरमुद्दिश्य विलोलपल्लवाः।
निवपेस्सहकारमञ्जरीं प्रियचूतप्रसवो हि ते सखा॥ १७६॥
रतिपतिरभूद् यस्मिन् वेधाः सुधापरमाणुभि— र्यदिह घटितं यस्याकारं विलोक्य कृतः शशी।
वदनकमलं तत्पश्येयं सरोजदृशः पुन— र्दहनभवनं निर्माणं मे तदेव करिष्यसि॥ १७७॥