णेच्छइ इअरावि ससिं किं उण दिट्ठम्मि दिणअरम्मि कमलिणी॥ १५७॥
(कथं विरहप्रतिकूला भविष्यति सम्मुखस्थिता पत्यौ उपगते।
नेच्छति इतरथापि शशिनं किं पुनः दृष्टे दिनकरे कमलिनी॥)
वहलम्मि वि तमणिवहे णिव्वालेउण सच्चविअरूवाओ।
अणुबंधंति ससि—अरा घेत्तुं ण चअंति पाअवच्छाआओ॥ १५८॥
(बहुलेऽपि तमोनिवहे पृथक्कृत्वा सत्यापितरूपाः।
अनुबध्नन्ति शशिकराः ग्रहीतुं न शक्नुवन्ति पादपच्छायाः॥)
विअसंतेण मुणिज्जइ सिसिरोअग्ग-णवउत्थ-णिअअच्छाआओ।