असहंति व्व किलम्मइ पिअअमपच्चक्खदूसणं दिणलच्छी॥ १६१॥
(दूरप्रतिबद्धरागे आलिङ्गति दिनकरे अपरदिशाम्।
असहमानेव क्लाम्यति प्रियतमंप्रत्यक्षदूषणं दिनलक्ष्मीः॥)
ओरत्तपंकअमुहिं वम्मह—णडिअं व सलिलसअणणिसण्णं।
अल्लिअइ तीर-णलिणीं वाआए गमेइ सहअरिं चक्काओ॥ १६२॥
(उपरक्तपङ्कजमुखीं मन्मथ-नटितामिव सलिलशयननिषण्णाम्।
आलीयते तीरनलिनीं वाचा गमयति सहचरीं चक्रवाकः॥)
अनुनायिका यथा—(माघ. ११.२२)
नवकुमुदवनश्रीहासकेलिप्रसङ्गादधिकरुचिरशेषामप्युषां जागरित्वा।