लीलं बहुप्पआरं सा हु को विआरेइ कामस्स॥ १५५॥
(गृहस्वामिनः वञ्चितप्रियानना पतति सखीमुखे दृष्टिः।
लीलां बहुप्रकारां सा खलु विचारयति कामस्य॥)
एत एवोपचरितवृत्तयः सन्निभाः। तेषु —
अङ्गुलीभिरिव केशसञ्चयं सन्निगृह्य तिमिरं मरीचिभिः।
कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी॥ १५६॥
प्रतिनायको यथा—(सेब. ११.२६)
कह विरहप्पडिऊला होहिइ समुहठ्ठिआ पइम्मि उपगए।