विधिना जन एष वञ्चितस्त्वदधीनं खलु देहिनां सुखम्॥ १७१॥
शशिना सह याति कौमुदी सह मेघेन तडित् प्रलीयते।
प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैरपि॥ १७२॥
१३. समयाभ्यर्थनं यथा—(कुसं. ४.३२)
तदिदं क्रियतामनन्तरं भवता बन्धुजनप्रयोजनम्।
अविषह्यवियोगवेदनां ननु मां प्रापय पत्युरन्तिकम्॥ १७३॥
कुसुमास्तरणे सहायतां बहुशः सौम्य! गतस्त्वमावयोः।
कृरु सम्प्रति सत्वरं मया विनिपाताञ्जलियाचितां१ चिताम्॥ १७४॥