(सोढे रामविरहे दुस्सहनीये प्रतीष्टे वैधव्ये।
सहस्व गतस्नेहलघुकं मम निर्लज्जमरणमिदमिति प्ररुदिता॥)
शून्या दिशस्सपदि वीक्ष्य शुचा वराकी मृत्योर्मुखं विशति पाशमयं निराशा।
एतावथ स्व—वध—पातक—दीर्घरोषा मा गच्छ शीघ्रमबलां परिरक्ष यावत्?॥ १६९॥
विश्वम्भरात्मजा देवी राज्ञा त्यक्ता महावने।
प्राप्तप्रसवमात्मानं गङ्गादेव्यां विमुञ्चति॥ १७०॥
१२. मरणाभिनिवेशो यथा—(कुसं. ४.१०)
परलोकनवप्रवासिनः प्रतिपद्ये पदवीमहं तव।