८. सहायाभ्युपपत्तिर्यथा—(कुसं. ४.२५)
अथ तैः परिदेविताक्षरैः हृदये दिग्धशरैरिवार्दितम्।
रतिमभ्युपपत्तुमादरान् मधुरात्मानमदर्शयत् पुरः॥ १६३॥
तामभ्यगच्छद् रुदितानुसारी कविः कुशेध्माहरणाय यातः।
निषादविद्धाण्डजदर्शनोत्थः श्लोकत्वमापद्यत यस्य शोकः॥ १६४॥
९. सहायाभाषणं यथा—(उराच. ३.३०)
इदं विश्वं पाल्यं विधिवदभियुक्तेन मनसा प्रियाशोको जीवं कुसुममिव घर्मः कलयति।
स्वयं कृत्वा त्यागं विलपनविनोदोऽप्यसुलभ— स्तदद्याप्युच्छ्वासो भवतु ननु लाभो हि रुदितम्॥ १६५॥