वदनकमलकं शिशोः स्मरामि स्खलदसमञ्जितमञ्जुजल्पितं ते॥ १५९॥
अकारणस्मेरमनोहराननः शिखालमलाटार्पितगौरसर्षपः।
तवाङ्कशायी परिवृत्तभाग्यया मया न दृष्टः खलु स स्तनन्धयः॥ १६०॥
७. सहायाक्रन्दनं यथा—(कादकसा. ६.१०७)
ततो भग्नग्रीवं मुकुलितसितापाङ्गनयनं प्रभां तन्वीं दीनामिव निदधतं दिक्षु दशनैः।
क्षितौ विश्रान्ताङ्गं पतितमिममालोक्य विवशा महाश्वेता सद्यः कथमपि न याति स्म दलशः॥ १६१॥
अकृतकबलारम्भैर्वक्त्रैर्भयस्थगितेक्षणाः किमपि वलितग्रीवं स्थित्वा मुहुर्मृगपङ्क्तयः।
गगनमसकृत् पश्यन्त्येतास्तथाश्रुघनैर्मुखै— र्निपतति यथा श्रृङ्गाग्रेभ्यो भ्रमन्नयनोदकम्॥ १६२॥