शैलोद्धारसहायतां जिगमिषोरप्राप्तगोवर्धना राधायाः सुचिरं जयन्ति गगने वन्ध्याः करभ्रान्तयः॥ १४७॥
लोके प्रतीतवृद्धयः संसिद्धाः। तत्र —
सार्ववर्णिकः कनिष्ठादिर्नायकः, स यथा—(गास. ५.९८)
जं वहइ पीअ/वीअं खं/कंडं मज्झ सुओ एकपहरविणिवाई।
तं कुलदूसणिसुण्हाथणाण तुह मट्ठए पडउ॥ १४८॥
(यद् वहति द्वितीयं का/खण्डं मम सुत एकप्रहारविनिपाती।
तत् कुलदूषणीस्नुषास्तनयोः तव मस्तके पततु॥)
नायकोपगामिफलविशेषोऽर्थिप्रतिनायको यथा—(गास. ३.४९)
जह जह वड्ढंति थणा तह तह झिज्जंति पंच वाहिए।