मज्झं पिओ कुदंडो पल्लिजुआणो सवत्तीओ॥ १४९॥
(यथा यथा वर्धेते स्तनौ तथा तथा क्षीयन्ते पञ्च व्याधयः।
मध्यः प्रियः कोदण्डः पल्लियुवानः सपत्न्यश्च॥)
उपपतिरुपनायको यथा—(गास. ३.४९)
अज्जा मए गंतव्वं घणंधआरे वि तस्स सुहअस्स।
अज्जा णिमीलिअच्छी पअपरिवाडिं घरे आइ॥ १५०॥
(अद्य मया गन्तव्यं घनान्धकारेऽपि तस्य सुभगस्य।
आर्या निमीलताक्षी पदपरिपाटीं गृहे करोति॥)
पत्युः कनीयाननुनायको यथा—(गास. ८७६वे.)
ठाणे ठाणे वलिआ वलणे वलणे वलणे सु/सवेअसकुडुङ्गा।