भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 601 to 610 of 782 verses
एवं कथाशरीरव्यापिका नायिका यथा—

तासां माधवपत्‍नीनां सर्वासां बद्धवर्चसाम्।

शब्दविद्येव विद्यानां मध्ये जज्वाल रुक्मिणी॥ १४४॥

तत्प्रतियोगिनी प्रतिनायिका यथा—(हरिवि. अत्रैव ७.१२, ९५)

कुविआ अ सच्‍चभामा . . . मंतू॥ १४५॥ (पृ. १३३०)

नायिकायाः किञ्चिदूना समा वा गौरवायतनमुपनायिका यथा—(सक. ५.३५३)

देवीस्वीकृतमानसस्य नियतं स्वप्‍नायमानस्य मे तद्गोत्रग्रहणादियं सुवदना यायात् कथं न व्यथाम्।

इत्थं यन्त्रणया कथं कथमपि क्षीणां निशां जाग्रतो दाक्षिण्योपहतेन सा प्रियतमा स्वप्‍नेऽपि नासादिता॥१४६॥

नायिकायाः कनीयस्यनुनायिका यथा—(सुमु. ४३)

हेलोदस्तमहीधरस्य तनुतामालोक्य दोष्णो हरेः स्‍नेहादंसतटेऽवलम्ब्य चरणावारोप्य तत्पादयोः।

Showing 601 to 610 of 782 verses