वामेतरः संशयमस्य बाहुः केयूरबन्धोच्छ्वसितैर्नुनोद॥ १४०॥
तत्प्रतियोगी प्रतिनायको यथा—(रघु. ६.६७)
सञ्चारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा।
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः॥ १४१॥
नायकात् किञ्चिदूनः समो वा गौरवायतनमुपनायको यथा—(किराता. २.१)
विहितां प्रियया मनःप्रियामथ निश्चित्य गिरं गरीयसीम्।
उपपत्तिमदूर्जिताश्रयं नृपमूचे वचनं वृकोदरः॥ १४२॥
एवंविध एव तन्निदेशवर्ती उपनायको यथा—(मामा. ८.११)
कथयति त्वयि सस्मितमालतीवलितलोलकटाक्षपराहतम्।
नयनपङ्कजमुल्लसितत्रपाविधुरदृष्टि सखी नमयिष्यति॥ १४३॥