पेच्छइ आइत्तपहं पिअ—पडिवत्ति—रसिओ विलासिणीसत्थो॥ १६३॥
(नेपथ्यदत्तहृदयोऽपसारितसखीजनोऽन्तःस्थितो निभृतम्।
प्रेक्षते आदीप्तपथं प्रियप्रतिपत्तिरसिको विलासिनीसार्थः॥)
आलिहदि पिअअमा आसण्णविओअं वम्महआउर—हिअअं।
पुलउग्गमेण पिसुणिअकेअवमाणविमुहं विलासिणिसत्थं॥ १६४॥
(आलिखति प्रियतमा आसन्नवियोगं मन्मथातुरहृदयम्।
पुलकोद्गमेन पिशुनितकैतवमानविमुख विलासिनीसार्थम्॥)
अप्पेइ अ जुवइजणो ताविअदइआए सम्मुहादंस—दिण्णं।
हिअअप्पहुत्तमहिअं मअण—वहुप्पंत—लोअणो परिओसं॥ १६५॥
(अर्पयति च युवतिजनः तापितदयितायाः सम्मुखादर्शदत्तम्।