(दीर्घोष्णा निःश्वासा रणरणको रोदनगद्गदं गेयम्।
प्रियविरहे जीवितवल्लभानां एष एव विनोदः॥)
हेयोपादेयो यथा—(गास. ८४७वे.)
चिरजीवित्तण—कंखिरि मा तम्म रसाअणेहि अथिरेहिं।
विरहं पवज्ज जाअंति जेण जुअदीहरा दिअहा॥ १६६॥
(चिरजीवित्वकाङ्क्षणशीले मा ताम्य रसायनैरस्थिरैः।
विरहं प्रतिपद्य जायन्ते येन युगदीर्घा दिवसाः॥)
३. उपायविपर्ययः — कादाचित्कः, ऐकदेशिकः, विहितश्च। तेषु —
कादाचित्को यथा—(मेघ. १०५)
मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतो— र्लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु।