उपसिहु उदुंगुववसंइज्जं मडे॥ १७१॥
उत्कम्पोऽपि सकम्प एव हृदये चिन्तापि चिन्तान्विता निःश्वासा अपि निःश्वसन्त्यनिभृता बाष्पोऽपि बाष्पायते।
कान्तां संस्मरतो विदेशवसतेर्नक्तान्दिवं कामिनः प्रारोहा इव निष्पतन्ति मनसो दुःखानि दुःखान्वितात्॥ १७२॥
३. स्वपरदेशे उभयस्थं यथा—(सक. ९०६)
सुप्ते ग्रामे नदति जलदे शान्तसंवादरम्यं पान्थेनात्मव्यसनकरणोदश्रु गीतं निशीथे।
स्फीतोत्कण्ठापरिगतधिया प्रोषितस्त्रीजनेन ध्यानावेशास्तिमितनयनं श्रूयते रुद्यते च॥ १७३॥
४. उभयसाधारणे उभयसाधारणं यथा—(उराच. ६.३८)
चिरं ध्यात्वा ध्यात्वा लिखितमिव निर्माय पुरतः प्रवासे प्रश्वासं न खलु न करोति प्रियजनः।
जगज्जीर्णारण्यं भवति तु विकल्पव्युपरमे कुकूलानां राशौ तदनु हृदयं पच्यत इव॥ १७४॥