(१२) स्वजनोपगमो बान्धवागमः, यथा—(कादकसा. ८.८९, ९६)
तारापीडः परिणतिकृशोऽप्याययौ तत्र तूर्णं सानन्दान्तःपुरपरिजनामात्यवर्गानुयातः ।
अस्मिन्काले सखिसहचरः पुण्डरीकोऽपि नाकात् किञ्चिल्लज्जाविनमितमुखो वल्लभाभ्याशमभ्यैत्॥ १७३॥
आजग्मुस्तत्र वल्गत्तुरगखुरपुटोद्धूतधूलीकडारै— श्चूडारत्नप्रतानोज्ज्वलरुचिरैश्शोभमानाः शिरोभिः।
चन्द्रापीडेन्दुसन्दर्शनरभससमुत्फुल्ललोलेक्षणाब्जा निर्व्याजौत्सुक्यसज्जीकृतनिरतिशयोपायनाः पार्थिवेन्द्राः॥ १७४॥
(१३) पूज्यपूजनं गुरुजनाभ्युपपत्तिः, यथा—(कादकसा. ८.९०, ९२)
चन्द्रापीडः स्वामथ जानन्नापि मूर्तिं तारपीडं पुत्रवदेव प्रणनाम।
तद्वत्पूर्वं प्रश्रयशीलः शुकनासं दत्तानन्दोऽवन्दत सर्वाः स्वजनित्रीः॥ १७५॥
सपुण्डरीको मुनिरप्यपश्यदात्मानमन्तश्शुकनासपुत्रम्।