छाया न मूर्च्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा॥ १८०॥
(१६) दैवसम्पदुपवर्णनं भाग्यप्रशंसा, यथा—
दग्धैकेन हनूमता सखि! यथा लङ्का यथाम्भोनिधौ शैलैः सेतुरकारि भस्मनि हुतं नागास्रबन्धो यथा।
द्वीपादद्य यथाऽन्यतोऽपि निशया नीता विशल्यौषधि— र्दिष्ट्या जानकि! वर्धसे तव तथा जातोऽनुकूलो विधिः॥ १८१॥
उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक् तदनन्तरं पयः।
निमित्तनैमित्तिकयोरयं क्रमस्तव प्रसादस्य पुरस्तु सम्पदः॥ १८२॥
(१७) वेषभूषाद्यवाप्तिर्नैपथ्यादिग्रहणम्, यथा—(कादकसा. ८.९८)
ताभ्यामेव निरस्य तापसतनुच्छायां दुहित्रोः कृते भास्वत्कौतुकमङ्गले नववधूवेषे मनोहारिणि।