अद्यापि कामिनां चित्ते रतिर्वहति जिह्मताम्॥ १६२॥
(७) कान्तानुवृत्तिः प्रियोपच्छन्दनं, यथा—(ताव. ५.२७)
किं प्राणा न मया तवानुगमनं कर्तुं समुत्साहिता, बद्धाः किं नु जटा न वा प्रतितरू भ्रान्तं१ वने निर्जने।
त्वत्सम्प्राप्तिविलोभनेन पुनरप्यूढं न पापेन किं किं कृत्वा कुपिता यदद्य न वचस्त्वं मे ददासि प्रिये!॥ १६३॥
विकिर धवलदीर्घापाङ्गसंसर्पि चक्षुः परिजनपथवर्तिन्यत्र किं सम्भ्रमेण।
स्मितमधुरमुदारं देवि! मामालपोच्चैः प्रभवति मम पाण्योरञ्जलिस्त्वं स्पृशास्मान्॥ १६४॥
(वेसं. २.१७) १. तरु भ्रा = तरुर्भ्रा राघवः, तनुर्भ्रा — जोशेरः
(८) मित्रावलोकनादिकं सुहृदपेक्षा, यथा—(कादकसा. ८.८५,८६)
सख्याः प्रियं पितृतपोभिरिवाप्तजीवं भूयः कपिञ्जलकरार्पितपाणिपद्मम्।
मन्मण्डलादवतरन्तमखण्डकान्तिमा पाण्डुगण्डमवलोकय पुण्डरीकम्॥ १६५॥