हेमासिंहासनासीनो मुनिः स्रीभिः प्रकल्पितम्।
अन्वतीतां महाभाग्यौ दम्पती तत्र मङ्गलम्॥ १९०॥
(२१) अभ्युदयसेवा उत्सवानुभवः, यथा—
ततो महोत्सवो जज्ञे राज्ञः सान्तःपुरे पुरे।
सभाजनागतामात्यपौरलोकसमाकुले ॥ १९१॥
सङ्कल्पाधिकहर्षलाभरभसोज्जृम्भाविलोलीभवद्— गान्धर्वप्रमदाकदम्बककृतक्रीडाशतास्फालनाम्।
साकं चित्ररथस्ततो मदिरया हंसश्च गौर्या सह द्रष्टुं नुत्तमयीमिव व्यवसितावाजग्मतुर्मेदिनीम्॥ १९२॥
(२२) पत्युरवियोगो दयितसाहचर्यम्, यथा—
ऋतध्वजश्च सुचिरं तया रेमे सुमध्यया।