नितम्बेषु च शैलानां निम्नगापुलिनेषु च॥ १९३॥
कामिनीसहचरस्य कामिनस्तस्य वेश्मसु मृदङ्गनादिषु।
ऋद्धिमन्तमधिकर्द्धिरुत्तमः पूर्वमुत्सवमपोहदुत्सवः॥ १९४॥
(२३) प्रेमाभिमानवृद्धिः श्रृङ्गारपुष्टिः, यथा—(कादकसा. ८.१९)
इति विततविलासः पुण्डरीकेण सार्धं दिवि भुवि च विचित्रोद्यानलीलाविहारः।
अभिनवफलसम्पद्वर्धमानाऽभिनन्द— श्रियमभजत चन्द्रापीडमूर्तिर्मृगाङ्कः॥ १९५॥
तीर्थे तोयव्यतिकरभवे जह्रुकन्यासरय्वोः देहत्यागादमरगणनालोख्यमासाद्य सद्यः। पूर्वाकाराधिकतररुचा सङ्गतः कान्तयासौ लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु॥१९६॥ (रघु. ८.९५)
(२४) कल्याणान्तरावतंसा कल्याणसम्पत् सौख्यपरम्परा, यथा— (नागा. ५.३७, ३९)
हंसैराहतहेमपङ्कजरजस्सम्पर्कपङ्कोज्झितै— रुत्पत्रैर्मम मानसादविरतैस्तोयैर्महापावनैः। स्वेच्छानिर्मितरत्नकुम्भनिहितैरैषाभिषिच्य स्वयं त्वां विद्याधरचक्रवर्तिनमहं प्रीता करोमि क्षणात्॥१९७॥