दलति हृदयं गाढोद्वेगं द्विधा न तु भिद्यते वहति विकलः कायो देहं न मुञ्चति चेतना।
ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात् प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम्॥ २०२॥
एकमुत्कण्ठया शून्यमन्यद् दयितया हृतम्।
वेदनामपरं धत्ते कियन्ति हृदयानि मे॥ २०३॥
शिथिलशिथिलं न्यस्य स्वैरं धनुश्शिखरे भुजं नयनसलिलैः कुर्वन् मौर्वीं लतामपरामिव।
अहह विकलः श्रुत्वा श्रुत्वा घनस्तनितध्वनिं किमपि किमपि ध्यायन्नार्यो न याति न तिष्ठति॥ २०४॥
१२. तत्रैव मूर्च्छा यथा—(मामा. ९. २०)